|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.46. अध्यायः 046
Mahabharata - Drona Parva - Chapter Topics
अभिमन्युना दुर्योधनसूनोर्लक्ष्मणस्य वधः॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
धृतराष्ट्र उवाच। 7-46-0x(4369)(46610)
यथा वदसि मे सूत एकस्य बहुभिः सह।
सङ्ग्रामं तुमुलं घोरं जयं चैव महात्मनः॥ 7-46-1(46611)
अश्रद्धेयमिवाश्चर्यं सौभद्रस्याथ विक्रमम्।
किन्तु नात्यद्भुतं तेषां येषां धर्मो व्यपाश्रयः॥ 7-46-2(46612)
दुर्योधने च विमुखे राजपुत्रशते हते।
सौभद्रे प्रतिपत्तिं कां प्रत्यपद्यन्त मामकाः॥ 7-46-3(46613)
सञ्जय उवाच। 7-46-4x(4370)
संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना रोमहर्षणाः।
पालयनकृतोत्साहा निरुत्साहा द्विष़ज्जये॥ 7-46-4(46614)
हतान्भ्रातॄन्पितॄन्पुत्रान्सुहृत्सम्बन्धिबान्धवान्।
उत्सृज्योत्सृज्य सञ्जग्मुस्त्वरयन्तो हयद्विपान्॥ 7-46-5(46615)
तान्प्रभग्नांस्तथा दृष्ट्वा द्रोणो द्रौणिर्बृहद्बलः।
कृपो दुर्योधनः कर्णः कृतवर्माथ सौबलः॥ 7-46-6(46616)
अभ्यधावन्सुसङ्क्रुद्धाः सौभद्रमपराजितम्।
ते तु पौत्रेण ते राजन्प्रायशो विमुखीकृताः।
`सौभद्रेण महाराज शक्रप्रतिमतेजसा'॥ 7-46-7(46617)
एकस्तु सुखसंवृद्धो बाल्याद्दर्पाच्च निर्भयः।
इष्वस्त्रविन्महातेजा लक्ष्मणोऽर्जुनिमभ्ययात्॥ 7-46-8(46618)
तमन्वगेवास्य पिता पुत्रगृद्धी न्यवर्तत।
अनुदुर्योधनं चान्ये न्यवर्तन्त महारथाः॥ 7-46-9(46619)
तं तेऽभिषिषिचुर्बाणैर्मेघा गिरिमिवाम्बुभिः।
स तु तान्प्रममाथैको विष्वग्वातो यथाम्बुदान्॥ 7-46-10(46620)
पौत्रं तव च दुर्धर्षं लक्ष्मणं प्रियदर्शनम्।
पितुः समीपे तिष्ठन्तं शूरमुद्यतकार्मुकम्॥ 7-46-11(46621)
अत्यन्तसुखसंवृद्धं धनेश्वरसुतोपमम्।
आससाद रणे कार्ष्णिर्मत्तो मत्तमिव द्विपम्।
`सिंहशाबो वने शश्वत्पुण्डरीकशिशुं यथा'॥ 7-46-12(46622)
लक्ष्मणेन तु सङ्गम्य सौभद्रः परवीरहा।
शरैः सुनिशितैस्तीक्ष्णैर्बाह्वोरुरसि चार्पयत्॥ 7-46-13(46623)
सङ्क्रुद्धौ वै महाराज दण्डाहत इवोरगः।
पौत्रस्तव महाराज तव पौत्रमभाषत॥ 7-46-14(46624)
सुदृष्टः क्रियतां लोको ह्यमुं लोकं गमिष्यसि।
पश्यतां बान्धवानां त्वां नयामि यमसादनम्॥ 7-46-15(46625)
एवमुक्त्वा ततो भल्लं सौभद्रः परवीरहा।
उद्बबर्ह महाबाहुर्निर्मुक्तोरगसन्निभम्॥ 7-46-16(46626)
स तस्य भुजनिर्मुक्तो लक्ष्मणस्य सुदर्शनम्।
सुनसं सुभ्रु केशान्तं शिरोऽहार्षीत्सकुण्डलम्॥ 7-46-17(46627)
`पौत्रस्तु तव दुर्धर्षं लक्ष्मणं प्रियदर्शनम्।
पितुः समीपे तिष्ठन्तं प्राहिणोद्यमसादनम्॥ 7-46-18(46628)
अत्यन्तसुखसंवृद्धं धनेश्वरसुतोपमम्'।
लक्ष्मणां निहतं दृष्ट्वा हाहेत्युच्चुक्रुशुर्जनाः॥ 7-46-19(46629)
ततो दुर्योधनः क्रुद्धः प्रिये पुत्रे निपातिते।
हतैनमिति चुक्रोश क्षत्रियान्क्षत्रियर्षभः॥ 7-46-20(46630)
ततो द्रोणः कृपः कर्णो द्रोणपुत्रो बृहद्बलः।
कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन्॥ 7-46-21(46631)
तांस्तु विद्धा शितैर्बाणैर्विमुखीकृत्य चार्जुनिः।
वेगेनाभ्यपतत्क्रुद्धः सैन्धवस्य महद्बलम्॥ 7-46-22(46632)
आवव्रुस्तस्य पन्थानं गजानीकेन दंशिताः।
कलिङ्गाश्च निषादाश्च क्राथपुत्रश्च वीर्यवान्।
तत्प्रसक्तमिवात्यर्थं युद्धमासीद्विशाम्पते॥ 7-46-23(46633)
ततस्तत्कुञ्जरानीकं व्यधमद्धृष्टमार्जुनिः।
यथा वायुर्नित्यगतिर्जलदाञ्शतशोऽम्बरे॥ 7-46-24(46634)
ततः क्रुद्धाः शरव्रातै राजानः समवारयन्।
अथेतरे सन्निवृत्ताः पुनर्द्रोणमुखा रथाः।
परमास्त्राणि धुन्वानाः सौभद्रमभिदुद्रुवुः॥ 7-46-25(46635)
तान्निवार्यार्जुनिर्बाणैः क्राथपुत्रमयोधयत्।
शरौघेणाप्रमेयेण त्वरमाणो जिघौसया॥ 7-46-26(46636)
सधनुर्बाणकेयूरौ बाहू समुकुटं शिरः।
सच्छत्रध्वजयन्तारं रथं चाश्वान्न्यपातयत्॥ 7-46-27(46637)
कुलशीलश्रुतिबलैः कीर्त्या चास्त्रबलेन च।
युक्ते तस्मिन्हते वीराः प्रायशो विमुखाऽभवन्॥ ॥ 7-46-28(46638)
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिवसयुद्धे षट्चत्वारिंशोऽध्यायः॥ 46 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-46-3 प्रतिपत्तिं प्रतिविधानम्॥ 5-46-10 विष्वग्वातोऽशेषदिग्वातः॥ 5-46-17 केशान्तं केशैर्मनोहरम्। अन्तः प्रान्तेऽन्तिके मध्ये स्वरूपे च मनोहरे इत्यभिधानात्॥ 5-46-23 धृष्टं प्रगल्भम्॥ 5-46-46 षट्चत्वारिंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|